वांछित मन्त्र चुनें

पू॒र्वीष्ट॑ इ॒न्द्रोप॑मातयः पू॒र्वीरु॒त प्रश॑स्तय॒: सूनो॑ हि॒न्वस्य॑ हरिवः । वस्वो॑ वी॒रस्या॒पृचो॒ या नु साध॑न्त नो॒ धियो॒ नभ॑न्तामन्य॒के स॑मे ॥

अंग्रेज़ी लिप्यंतरण

pūrvīṣ ṭa indropamātayaḥ pūrvīr uta praśastayaḥ sūno hinvasya harivaḥ | vasvo vīrasyāpṛco yā nu sādhanta no dhiyo nabhantām anyake same ||

पद पाठ

पू॒र्वीः । ते॒ । इ॒न्द्र॒ । उप॑ऽमातयः । पू॒र्वीः । उ॒त । प्रऽश॑स्तयः । सूनो॒ इति॑ । हि॒न्वस्य॑ । ह॒रि॒ऽवः॒ । वस्वः॑ । वी॒रस्य॑ । आ॒ऽपृचः॑ । या । नु । साध॑न्त । नः॒ । धियः॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४०.९

ऋग्वेद » मण्डल:8» सूक्त:40» मन्त्र:9 | अष्टक:6» अध्याय:3» वर्ग:25» मन्त्र:3 | मण्डल:8» अनुवाक:5» मन्त्र:9